ईशावास्योपनिषत्
ॐ पूर्णमद: पूर्णमिदं पूर्णात् पूर्णमुदच्यते ।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥
तेन त्यक्तेन भुञ्जीथा मा गृध: कस्यस्विद्धनम् ॥
कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समा: ।
एवं त्वयि नान्यथेतोsस्ति न कर्मा लिप्यते नरे ॥
असुर्या नाम ते लोका अन्धेन तमसाssवृता: ।
तांस्ते प्रेत्याभिगच्छन्ति ये के चात्महनो जना: ॥
अनेजदेकं मनसो जवीयो नैनद्देवा आप्नुवन् पूर्वमर्षत् ।
तद्धावतोsन्यानत्येति तिष्ठत् तस्मिन्नपो मातरिश्वा दधाति ॥
तदेजति तन्नैजति तद्दूरे तद्वन्तिके ।
तदन्तरस्य सर्वस्य तदु सर्वस्यास्य बाह्यत: ॥
यस्तु सर्वाणि भूतान्यात्मन्येवानुपश्यति ।
सर्वभूतेषु चात्मानं ततो न विजुगुप्सते ॥
यस्मिन् सर्वाणि भूतान्यात्मैवाभूद्विजानत: ।
तत्र को मोह: क: शोक: एकत्वमनुपश्यत: ॥
स पर्यगाछुक्रमकायमव्रणमस्नाविरं शुद्धमपापविद्धं ।
कविर्मनीषी परिभू: स्वयम्भूर्याथातथ्यतोsर्थान् व्यदधाछाश्वतीभ्य: समाभ्य: ॥
अन्धं तम: प्रविशन्ति येsविद्यामुपासते ।
ततो भूय इव ते तमो य उ विद्ययां रता: ॥
अन्यदेवाहुर्विद्ययान्यदाहुरविद्यया ।
इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे ॥
विद्यां चाविद्यां च यस्तद्वेदोभयं सह ।
अविद्यया मृत्युं तीर्त्वा विद्ययाsमृतमश्नुते ॥
अन्धं तम: प्रविशन्ति येsसम्भूतिमुपासते ।
ततो भूय इव ते तमो य उ सम्भूत्यां रता: ॥
अन्यदेवाहु: सम्भवादन्यदाहुरसम्भवात् ।
इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे ॥
सम्भूतिं च विनाशं च यस्तद्वेदोभयं सह ।
विनाशेन मृत्युं तीर्त्वा सम्भूत्याsमृतमश्नुते ॥
हिरण्मयेन पात्रेण सत्यसापिहितम् मुखम् ।
तत्त्वं पूषन्नपावृणु सत्यधर्माय दृष्टये ॥
पूषन्नेकर्षे यम सूर्या प्राजापत्य व्यूह रश्मीन् समूह तेजो यत्ते रूपम कल्याणतमं तत्तेपश्यामि ।
योsसावसौ पुरुष: सोsहमस्मि ॥
वायुरनिलममृतमथेदं भस्मांतं शरीरम् ।
ॐ क्रतो स्मर कृतं स्मर क्रतो स्मर कृतं स्मर ॥
अग्ने नय सुपथा राये अस्मान् विश्वानि देवा वयुनानि विद्वान् ।
युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नमउक्तिं विधेम ॥
ॐ पूर्णमद: पूर्णमिदं पूर्णात् पूर्णमुदच्यते ।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥