Wednesday, January 1, 2014

Ishavasya Upanishad (ईशावास्योपनिषत्)

ईशावास्योपनिषत् 

ॐ पूर्णमद: पूर्णमिदं पूर्णात् पूर्णमुदच्यते  । 
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते  ॥ 

ॐ ईशावास्यमिदं सर्वं यत्किंच जगत्यां जगत्  । 
तेन त्यक्तेन भुञ्जीथा मा गृध: कस्यस्विद्धनम्  ॥ 

कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समा: । 
एवं त्वयि नान्यथेतोsस्ति न कर्मा लिप्यते नरे ॥ 

असुर्या नाम ते लोका अन्धेन तमसाssवृता: । 
तांस्ते प्रेत्याभिगच्छन्ति ये के चात्महनो जना: ॥ 

अनेजदेकं मनसो जवीयो नैनद्देवा आप्नुवन् पूर्वमर्षत् ।
तद्धावतोsन्यानत्येति तिष्ठत् तस्मिन्नपो मातरिश्वा दधाति ॥ 

तदेजति तन्नैजति तद्दूरे तद्वन्तिके । 
तदन्तरस्य सर्वस्य तदु सर्वस्यास्य बाह्यत: ॥ 

यस्तु सर्वाणि भूतान्यात्मन्येवानुपश्यति । 
सर्वभूतेषु चात्मानं ततो न विजुगुप्सते ॥ 

यस्मिन् सर्वाणि भूतान्यात्मैवाभूद्विजानत: । 
तत्र को मोह: क: शोक: एकत्वमनुपश्यत: ॥ 

स पर्यगाछुक्रमकायमव्रणमस्नाविरं  शुद्धमपापविद्धं । 
कविर्मनीषी परिभू: स्वयम्भूर्याथातथ्यतोsर्थान् व्यदधाछाश्वतीभ्य: समाभ्य: ॥ 

अन्धं तम: प्रविशन्ति येsविद्यामुपासते । 
ततो भूय इव ते तमो य उ विद्ययां रता: ॥ 

अन्यदेवाहुर्विद्ययान्यदाहुरविद्यया ।
इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे ॥

विद्यां चाविद्यां च यस्तद्वेदोभयं सह ।
अविद्यया मृत्युं तीर्त्वा विद्ययाsमृतमश्नुते ॥ 

अन्धं तम: प्रविशन्ति येsसम्भूतिमुपासते । 
ततो भूय इव ते तमो य उ सम्भूत्यां रता: ॥ 

अन्यदेवाहु: सम्भवादन्यदाहुरसम्भवात्  ।
इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे ॥

सम्भूतिं च विनाशं च यस्तद्वेदोभयं सह ।
विनाशेन मृत्युं तीर्त्वा सम्भूत्याsमृतमश्नुते ॥

हिरण्मयेन पात्रेण सत्यसापिहितम् मुखम् । 
तत्त्वं पूषन्नपावृणु सत्यधर्माय दृष्टये ॥ 

पूषन्नेकर्षे यम सूर्या प्राजापत्य व्यूह रश्मीन्  समूह तेजो यत्ते रूपम कल्याणतमं तत्तेपश्यामि । 
योsसावसौ पुरुष: सोsहमस्मि ॥ 

वायुरनिलममृतमथेदं भस्मांतं शरीरम् । 
ॐ क्रतो स्मर कृतं स्मर क्रतो स्मर कृतं स्मर ॥ 

अग्ने नय सुपथा राये अस्मान् विश्वानि देवा वयुनानि विद्वान् । 
युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नमउक्तिं विधेम ॥ 

ॐ पूर्णमद: पूर्णमिदं पूर्णात् पूर्णमुदच्यते  । 
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते  ॥ 

No comments:

Post a Comment